कदाचित् रामनामजपं कुर्वन्तम् आञ्जनेयं शनिदेवः गर्वेण युद्धाय आह्वयते । गुरुपुत्रेण सह अहं युद्धं न करोमि इति युद्धप्रस्तावननिराकुर्वन्तम् आञ्जनेयं शनिः मुष्ट्या प्रहृतवान् । अनन्यगतिकया आञ्जनेयः स्वपुच्छेन शनिं बद्ध्वा शिलानाम् उपरि गर्तेषु च नीतवान् । शनेः देहः क्षतविक्षतः जातः । शनेः प्रार्थनानन्तरं तं मोचयित्वा, तैलमर्दनेन पीडाम् अपनीतवान् आञ्जनेयः । ततः प्रभृति शनिदेवस्य तैलसमर्पणप्रथा आरब्धा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Shanideva invited Hanuman, who was muttering prayers, for a fight. Hanuman declined, saying he would not fight with the son of Surya, who was his Guru. However, Shanideva seized his hands and thrashed him. Left with no other option, Hanuman tied Shani with his tail, carried him to the top of the mountains, and lowered him into the pits, thus injuring him. After much pleading, Hanuman released Shani and relieved him of the pain by applying oil to his wounds. From that moment, the practice of offering oil to Shanideva began.
Step into an infinite world of stories
English
International