Step into an infinite world of stories
Children
गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् । एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छत् । 'अहं भवान् इव मानवः अस्मि' इति गुरुनानकः अवदत् । तदनन्तरं तयोर्मध्ये यत् सम्भाषणं जातं तेन वन्यजातीनायकस्य न केवलं हृदयं द्रुतम् अपि तु तस्मिन् परिवर्तनम् अपि जातम् । सः गुरुनानकं शरणम् अगच्छत् । अन्ये सर्वे वन्यजातीयाः अपि नानकस्य शिष्याः अभवन् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Guru Nanak was traveling with his beloved disciple Mardana in the Vindhyachal region. Some tribal people captured Mardana and took him to a Bhairavi cave as a sacrificial offering. The priest of Bhairavi, holding a trident, approached to kill him. At that moment, the sound of "Waheguru" was heard. Upon hearing this, the priest underwent a remarkable change. Observing this, the leader of the tribal people angrily asked, "Who are you?" Guru Nanak replied, "I am a human like you." Thereafter, the conversation that took place between them not only melted the heart of the tribal leader but also brought about a change in him. He sought refuge in Guru Nanak. All the other tribal people also became disciples of Guru Nanak.
Release date
Audiobook: 15 May 2025
English
India